स्तोत्र · Ganesha

Sankatanashana Ganesha Stotram

श्री सङ्कटनाशन गणेश स्तोत्रम्

नारद उवाच

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।

भक्तावासं स्मेरनित्यमाय्ः कामार्थसिद्धये॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।

तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।

सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टकम्॥

नवमं भालचन्द्रं च दशमं तु विनायकम।

एकादशं गणपतिं द्वादशं तु गजाननम॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः।

न च विघ्नभयं तस्य सर्वासिद्धिकरं प्रभो॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।

पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम्॥

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्।

संवत्सरेण सिद्धिं च लभते नात्र संशयः॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां यः समर्पयेत्।

तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः॥

इति श्रीनारदपुराणे सङ्कटनाशनगणेशस्तोत्रं सम्पूर्णम्

इस पाठ का Hinglish संस्करण अभी तक नहीं जोड़ा गया है।

Ganesha के लिए और अधिक