स्तोत्र · Vishnu

Shri Hari Sharanashtakam

श्री हरि शरणाष्टकम्

श्री हरि शरणाष्टकम्

ध्येयं वदन्ति शिवमेव हि केचिदन्ये

शक्तिं गणेशमपरे तु दिवाकरं वै।

रूपैस्तु तैरपि विभासि यतस्त्वमेव

तस्मात्त्वमेव शरणं मम दीनबन्धो॥

नो सोदरो न जनको जननी न जाया

नैवात्मजो न च कुलं विपुलं बलं वा।

संदृष्यते न किल कोऽपि सहायको मे

तस्मात्त्वमेव शरणं मम दीनबन्धो॥

नोपासिता मदमपास्य मया महान्तस्तीर्थानि

चास्तिकधिया न हि सेवितानि।

देवार्चनं च विधिवन्न कृतं कदापि

तस्मात्त्वमेव शरणं मम दीनबन्धो॥

दुर्वासना मम सदा परिकर्षयन्ति

चित्तं शरीरमपि रोगगणा दहन्ति।

सञ्जीवनं च परहस्तगतं सदैव

तस्मात्त्वमेव शरणं मम दीनबन्धो॥

पूर्वं कृतानि दुरितानि मया तु यानि

स्मृत्वाखिलानि ह्रदयं परिकम्पते मे।

ख्याता च ते पतितपावनता तु यस्मात्

तस्मात्त्वमेव शरणं मम दीनबन्धो॥

दुःखं जराजननजं विविधाश्च रोगाः

काकश्वसूकरजनिर्निरय च पातः।

त्वद्विस्मॄतेः फलमिदं विततं हि लोके

तस्मात्त्वमेव शरणं मम दीनबन्धो॥

नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि

ब्रूयात्तवाहमिति यस्तु किलैकवारम्।

तं यच्छसीश निजलोकमिति व्रतं ते

तस्मात्त्वमेव शरणं मम दीनबन्धो॥

वेदेषु धर्मवचनेषु तथागमेषु

रामायणेऽपि च पुराणकदम्बके वा।

सर्वत्र सर्वविधिना गदितस्त्वमेव

तस्मात्त्वमेव शरणं मम दीनबन्धो॥

इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीहरिशरणाष्टकं सम्पूर्णम्

इस पाठ का Hinglish संस्करण अभी तक नहीं जोड़ा गया है।

Vishnu के लिए और अधिक