सूर्याष्टकम्
आदिदेव नमस्तुभ्यं
प्रसीद मम भास्कर।
दिवाकर नमस्तुभ्यं
प्रभाकर नमोऽस्तुते॥
सप्ताश्वरथमारूढं
प्रचण्डं कश्यपात्मजम्।
श्वेतपद्मधरं देवं तं
सूर्यं प्रणमाम्यहम्॥
लोहितं रथमारूढं
सर्वलोकपितामहम्।
महापापहरं देवं तं
सूर्यं प्रणमाम्यहम्॥
त्रैगुण्यं च महाशूरं
ब्रह्माविष्णुमहेश्वरम्।
महापापहरं देवं तं
सूर्यं प्रणमाम्यहम्॥
बृंहितं तेजःपुञ्जं च
वायुमाकाशमेव च।
प्रभुं च सर्वलोकानां
तं सूर्यं प्रणमाम्यहम्॥
बन्धूकपुष्पसङ्काशं
हारकुण्डलभूषितम्।
एकचक्रधरं देवं
तं सूर्यं प्रणमाम्यहम्॥
तं सूर्यं जगत्कर्तारं
महातेजःप्रदीपनम्।
महापापहरं देवं
तं सूर्यं प्रणमाम्यहम्॥
तं सूर्यं जगतां नाथं
ज्ञानविज्ञानमोक्षदम्।
महापापहरं देवं
तं सूर्यं प्रणमाम्यहम्॥