न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।
परं जाने मातस्त्वदनुसरणं क्लेशहरणम्॥
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्।
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥
परं तेषां मध्ये विरलतरलोऽहं तव सुतः।
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥
न वा दत्तं देवि द्रविणमपि भूयस्तव मया।
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥
मया पञ्चाशीतेरधिकमपनीते तु वयसि।
निरालम्बो लम्बोदरजननि कं यामि शरणम्॥
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः।
जनः को जानीते जननि जपनीयं जपविधौ॥
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः।
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम्॥
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः।
मृडानी रुद्राणी शिव शिव भवानीति जपतः॥
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः।
धत्से कृपामुचितमम्ब परं तवैव॥
करोमि दुर्गे करुणार्णवेशि।
क्षुधातृषार्ता जननीं स्मरन्ति॥
जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि।
अपराधपरम्परापरं न हि माता समुपेक्षते सुतम्॥
मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि।
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु॥