Stotra · Saraswati

Saraswati Dwadasha Nama Stotram

सरस्वती द्वादश नाम स्तोत्रम्

सरस्वतीमहं वन्दे वीणापुस्तकधारिणीम्।

हंसवाहसमायुक्तां विद्यादानकरीं मम॥

प्रथमं भारती नाम द्वितीयं च सरस्वती।

तृतीयं शारदा देवी चतुर्थं हंसवाहिनी॥

पश्चमं जगति ख्याता षष्ठं वाणीश्वरी तथा।

कौमारी सप्तमं प्रोक्ता अष्टमं ब्रह्मचारिणी॥

नवमं बुद्धिदात्री च दशमं वरदायिनी।

एकादशं क्षुद्रघण्टा द्वादशं भुवनेश्वरी॥

ब्राह्मी द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः।

सर्वसिद्धिकरी तस्य प्रसन्ना परमेश्वरी।

सा मे वसतु जिह्वाग्रे ब्रह्मरूपा सरस्वती॥

इति सरस्वतीद्वादशनामस्तोत्रं सम्पूर्णम्

A Hinglish reading of this text has not been added yet.

More for Saraswati