Stotra · Vishnu

Shri Dinabandhu Ashtakam

श्री दीनबन्धु अष्टकम् श्री दीनबन्ध्वष्टकम्

श्री दीनबन्ध्वष्टकम्

यस्मादिदं जगदुदेति चतुर्मुखाद्यं

यस्मिन्नवस्थितमशेषमशेषमूले।

यत्रोपयाति विलयं च समस्तमन्ते

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

चक्रं सहस्रकरचारु करारविन्दे

गुर्वी गदा दरवरश्च विभाति यस्य।

पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो।

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

येनोद्धृता वसुमती सलिले निमग्ना नग्ना

च पाण्डववधूः स्थगिता दुकूलैः।

संमोचितो जलचरस्य मुखाद्गजेन्द्रो।

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिं

कोपेक्षणेन दनुजा विलयं व्रजन्ति।

भीताश्चरन्ति च यतोऽर्कयमानिलाद्या।

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

गायन्ति सामकुशला यमजं मखेषु

ध्यायन्ति धीरमतयो यतयो विविक्ते।

पश्यन्ति योगिपुरुषाः पुरुषं शरीरे।

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

आकाररूपगुणयोगविवर्जितोऽपि मदद

भक्तानुकम्पननिमित्तगृहीतमूर्तिः।

यः सर्वगोऽपि कृतशेषशरीरशय्यो।

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दै

राराध्यते भवदवानलदाहशान्त्यै।

सर्वापराधमविचिन्त्य ममाखिलात्मा।

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

यन्नामकीर्तनपरः श्वपचोऽपि नूनं

हित्वाखिलं कलिमलं भुवनं पुनाति।

दग्ध्वा ममाघमखिलं करुणेक्षणेन।

दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥

दीनबन्ध्वष्टकं पुण्यं

ब्रह्मानन्देन भाषितम्।

यः पठेत् प्रयतो नित्यं

तस्य विष्णुः प्रसीदति॥

इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीदीनबन्ध्वष्टकं सम्पूर्णम्

A Hinglish reading of this text has not been added yet.

More for Vishnu